श्रीशिवगीता · अध्याय 7 / 16

सप्तमोऽध्यायः

विश्वरूपदर्शनम् — श्रीराम को विश्वरूप का दर्शन

श्रीराम उवाच ।

भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १ ॥

परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः सर्वभूतानां स्थितिर्वा विलयः कथम् ॥ २ ॥

स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ॥
ते सर्वे त्वं कथं देव भुवनानि चतुर्दश ॥ ३ ॥

त्वत्तः श्रुत्वापि देवात्र संदेहो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४ ॥

श्रीभगवानुवाच ।

वटबीजे सुसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आायति, तद्वद ॥
तद्वन्मम तनौ राम भूतानामागतिर्लयः ॥ ५ ॥

महासैन्धवपिण्डोऽपि जले क्षिसो विलीयते ।
न दृश्यते पुनः पाकात्तत आयाति पूर्ववत् ॥ ६ ॥

प्रातःप्रातर्यथा लोको जायते सूर्यमण्डलात् ।
एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ७ ॥

श्रीराम उवाच ।

कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ८ ॥

श्रीभगवानुवाच ।

मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ ९ ॥

दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ १० ॥

न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ ११ ॥

श्रीसूत उवाच ।

इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १२ ॥

विद्युत्कोटिप्रतीकाशमतिभीमभयावहम्।
तदृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १३ ॥

प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनःपुनः ॥
अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १४ ॥

वक्रं पुरभिदस्तावदन्तर्ब्रह्माण्डकोटयः ॥
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १५ ॥

मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्चभूतानि ते सुराः ॥ १६ ॥

अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तु दृष्ट्वा दशरथात्मजः ॥ १७ ॥

सुरासुराणां संग्रामांस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्कर्तव्यान्यपि द्विजाः ॥ १८ ॥

पराभवांश्च देवानां पुरदाहं महेशितुः ॥
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ १९ ॥

दृष्ट्वा रामो भयाविष्टः प्रणनाम मुहुर्मुहुः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २० ॥

अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २१ ॥

श्रीराम उवाच ।

देव प्रपन्नार्तिहर प्रसीद प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले मां त्राहि संसारभयादनाथम् ॥ २२ ॥

त्वत्तो हि जातं जगदेतदीश
त्वय्येव भूतानि वसन्ति नित्यम् ।
त्वय्येव शंभो विलयं प्रयान्ति
भूमौ यथा वृक्षलतादयोऽपि ॥ २३ ॥

ब्रह्मेन्द्ररुद्राश्च मरुद्गणाश्च
गन्धर्वयक्षासुरसिद्धसङ्घाः ।
गङ्गादिनद्यो वरुणालयाश्च
वसन्ति शूलिंस्तव वक्रमन्ति ॥ २४ ॥

त्वन्मायया कल्पितमिन्दुमौले
त्वय्येव दृश्यत्वमुपैति विश्वम् ॥
भ् भ्रान्त्या जनः पश्यति सर्वमेत
च्छुक्तौ यथा रूप्यमहिं च रज्जौ ॥ २५ ॥

तेजोभिरापूर्य जगत्समग्रं प्रकाशमानः कुरुषे प्रकाशम् ।
विनाप्रकाशं तव देवदेव न दृश्यते विश्वमिदं क्षणेन ॥ २६ ॥

अल्पाश्रयो नैव बृहन्तमर्थ
धत्तेऽणुरेको नहि विन्ध्यशैलम् ॥
तद्वक्त्रमात्रे जगदेतदस्ति
त्वन्माययैवेति च निश्चिनोमि ॥ २७ ॥

रज्जौ भुजंगो भयदो यथैव
न जायते नास्ति न चैति नाशम् ॥
त्वन्मायया केवलमात्तरूपं
तथैव विश्वं त्वयि नीलकण्ठ ॥ २८ ॥

विचार्यमाणे तव यच्छरीर-
माधारभाव जगतामुपैति ।
तदप्यवश्यं मदविद्ययैव
पूर्णश्चिदानन्दमयो यतस्त्वम् ॥ २९ ॥

पूजेष्टपूर्तादिवरक्रियाणां
भोक्तुः फलं यच्छसि शस्तमेव ।
मृषैतदेवं वचनं पुरारे
त्वत्तोऽस्ति भिन्नं नच किंचिदेव ॥ ३० ॥

अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३१ ॥

किंचिद्दलं वा चुलकोदकं वा ।
यत्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि तज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये ॥ ३२ ॥

व्याप्नोषि सर्वा विदिशो दिशश्व
त्वं विश्वमेकः पुरुषः पुराणः ॥
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव ॥ ३३ ॥

यथैकमाकाशगमर्कबिम्बं
क्षुद्वेषु पात्रेषु जलान्वितेषु ।
भजत्यनेकप्रतिबिम्बभावं
तथा त्वमन्तःकरणेषु देव ॥ ३४ ॥

सुसर्जने वाप्यर्वने विनाशे
विश्वस्य किंचित्तव नास्ति कार्यम् ।
अनादिभिर्देहभृतामदृष्टै-
स्तथापि तत्स्वप्नवदातनोषि ॥ ३५ ॥

स्थूलस्य सूक्ष्मस्य जडस्य देह-
द्वयस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३६ ॥

नमः सच्चिदम्भोधिहंसाय तुभ्यं
नमः कालकण्ठाय कलात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्यैकभोक्त्रे ॥ ३७ ॥

सूत उवाच ।

एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ॥
विस्मितः परमेशानं जगदे रघुनन्दनः ॥ ३८ ॥

श्रीराम उवाच ।

उपसंहर विश्वात्मन्विष्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ३९ ॥

श्रीभगवानुवाच ।

पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ।

सूत उवाच ।

इत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् ॥ ४० ॥

मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ।
तावदेव गिरेः शृङ्गे व्याघ्रचर्मोपरि स्थितम् ॥ ४१ ॥

ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥
व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् ॥ ४२ ॥

फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मीत्तरीयं च विद्युत्पिङ्गजटाधरम् ॥ ४३ ॥

एकाकिनं चन्द्रमौलिंं वरेण्यमभयप्रदम् ।
चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् ॥ ४४ ॥

अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ।
अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥ ४५ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशात्रे शिवराघवसंवादे विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥