अगस्त्य उवाच ।
न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ॥
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १ ॥
मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २ ॥
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः ॥ ३ ॥
भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४ ॥
इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ॥
तस्याग्रे सङ्गरे देवा बहुवारं पलायिताः ॥ ५ ॥
कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरंजीवी विभीषणः ॥ ६ ॥
दुर्गं यस्यास्ति लङ्काख्यं दुर्जयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७ ॥
एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा ॥ ८ ॥
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ९ ॥
श्रीराम उवाच ।
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥ १० ॥
अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दह्यते तैस्तनुर्मम ॥ ११ ॥
अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ॥ १२ ॥
हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ॥
यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः ॥ १३ ॥
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥ १४ ॥
अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति ॥ १५ ॥
देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥ १६ ॥
अतस्त्वां दीक्षयिष्यामि विरजागममाश्रितः ।
तेन मार्गेण मर्त्यत्वं हित्वा तेजोमयो भव ॥ १७ ॥
येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यति ।
भुक्त्वा भूमण्डलं चान्ते शिवसायुज्यमाप्स्यसि ॥ १८ ॥
सूत उवाच ।
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १९ ॥
श्रीराम उवाच ।
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजादीक्षां ब्रूहि मे मुनिसत्तम ॥ २० ॥
अगस्त्य उवाच ।
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ २१ ॥
यं वाममाहुर्यं रुद्रं शाश्वतं परमेश्वरम् ।
परात्परं परं चाहुः परात्परतरं शिवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥ २२ ॥
ध्यात्वाग्निनावसथ्याग्निं विशोध्य च पृथक्पृथक् ।
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात् ॥ २३ ॥
मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् ।
एकमात्रममात्रं च द्वादशान्तव्यवस्थितम् ॥ २४ ॥
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २५ ॥
इदं व्रतं पाशुपतं कथयिष्ये समासतः ।
प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया ॥ २६ ॥
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २७ ॥
जुहुयाद्विरजोमन्त्रैः प्राणापानादिभिस्ततः ॥
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २८ ॥
आत्मन्यग्निं समारोप्य याते अग्नेति मन्त्रतः ॥
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ २९ ॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥
पाषैर्विमुच्यते नित्यं मुच्यते न च संशयः ॥ ३० ॥
अग्निवीर्यं यतो भस्म वीर्यवान्भस्मसंयुतः ॥
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ ३१ ॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्।
एवं कुरु महाराज शिवनामसहस्रकम् ॥ ३२ ॥
इदं तु संप्रदास्यामि तेन सर्वमवाप्स्यसि ॥ ३३ ॥
सूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥
वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् ॥ ३४ ॥
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ।
ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम् ॥ ३५ ॥
तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३६ ॥
तदलाभे दानवानां जयस्तव सुदुर्लभः ॥
तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३७ ॥
इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्तिराघवसंवादे विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥