श्रीशिवगीता · अध्याय 10 / 16

दशमोऽध्यायः

जीव का स्वरूप और हृदय में उसका स्थान

श्रीराम उवाच ।

भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ॥
जायते वा कुतो जीवः स्वरूपं वास्य किं वद ॥ १ ॥

देहान्ते व कुत्र याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद ॥ २ ॥

श्रीभगवानुवाच ।

साधु पृष्टं महाभाग गुह्याद्गुह्यतमं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३ ॥

अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः शृणु ॥ ४ ॥

सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ॥
परमात्मा परं ज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५ ॥

नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ॥
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६ ॥

नाहँ सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७ ॥

दूरः सर्वविकाराणां परमाण्वादिकस्य च ॥ ८ ॥

यतो वाचो नेिवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९ ॥

यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न् विजुगुप्सते ॥ १० ॥

यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११ ॥

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥

अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ता महेश्वरः ॥ १३ ॥

ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४ ॥

नानाविद्यासमायुक्स्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥
मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥ १५ ॥

वायवः पञ्च मिलिता यान्ति लिङ्गशरीरताम् ॥ १६ ॥

तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ॥
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि वा ॥ १७ ॥

स एव जगतां भोक्ता नाद्ययो: पुण्यपापयोः ।
इहामुत्र गती तत्र जागृत्स्वप्नादिभोक्तृता ॥ १८ ॥

यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम्।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९ ॥

परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ।
एकीभावाभिमानेन परात्मा दुःखभागिाव ॥ २० ॥

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ॥
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५ ॥

वालाग्रशतभागास्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयुः स चानन्त्याय कल्पते ॥ २६ ॥

कदम्बकुसुमोद्वद्धकेशरा इव सर्वतः ।
प्रसृता हृदयान्नाङयो याभिर्व्यासं शरीरकम् ॥ २७ ॥

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्सतिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८ ॥

हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तास्तु मुख्या विष्वग्विनिर्गताः ॥ २९ ॥

वहन्त्यम्भो यथा नद्यो। नाङयः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३० ॥

प्रतीन्द्रियं दशदश निर्गता विषयोन्मुखाः ॥
नाङयः शर्मादिहेतुत्वात्स्वप्नादिफलभुक्तये ॥ ३१ ॥

सुषुम्नेति समादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२ ॥

यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लेिजुङ्देहेऽपि दृश्यते ॥ ३३ ॥

दृश्यमाने यथा कुम्भे"घटाकाशोऽपि दृश्यते ।
तद्भत्सर्वगतोऽप्यात्मा लिङ्गदेहेऽपि दृश्यते ॥ ३४ ॥

निश्चलः परिपूर्णोपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथा ज्ञेयमभिव्यक्तविशेषधीः ॥ ३५ ॥

व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६ ॥

तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनाशयति ॥ ३७ ॥

आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८ ॥

उत्पादिते घटे यद्वद्धटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशं स्वरूपेणावतिष्ठते ॥ ३९ ॥

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोध्यावस्थां तिरोधाय देहाद्याश्रयलक्षणामू ॥ ४० ॥

कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायाया ॥ ४१ ॥

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रवस्थितान् ॥ ४२ ॥

एतान्पशयन्स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३ ॥

अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४ ॥

वासनाभिः प्रपञ्चोऽत्र दृशयते कर्मचोदितः ॥
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५ ॥

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६ ॥

भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपशयति ॥ ४७ ॥

मध्ये वयसि कार्कश्यात्करणानामिहादितः ।
प्रायेण वीक्षते स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८ ॥

इयासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥
भाविनी जन्मनो रूपं स्वप्न आत्मा प्रपशयति ॥ ४९ ॥

यद्वत्प्रपतनाच्छ्ये: श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायू नी: ॥ ५० ॥

एव जाग्रत्स्वपनभूमौ श्रान्त आत्माऽभिसचरन् ॥
आर्पीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१ ॥

नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्य च विज्ञानात्मा विलीयते ॥ ५२ ॥

ईश्वराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ॥
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३ ॥

योषितः काम्यमानायाः संभोगान्ते यथासुखम् ।
स आनन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४ ॥

प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठन्नथापि सः ॥ ५५ ॥

अविद्यासूक्ष्मवृत्त्यानुभवत्येव यथा सुखम् ॥
तथाहं सुखमस्वाप्सं नैव किंचिदवेदिषम् ॥ ५६ ॥

अज्ञानमपि साक्ष्यादिवृत्तिभिश्चानुभूतये ।
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते ॥ ५७ ॥

जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ।
पश्चात्कर्मवशादेव विस्फुलिङ्गा, इवानलात्।
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥ ५८ ॥

पयःपूर्णघटो यद्वन्निमग्नः सलिलाशये ॥
तैरेवोद्धृत आयाति विज्ञानात्मा तथैत्यजात् ॥ ५९ ॥

विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ।
दृश्यते सर्वमेष्वेव नष्टेष्वायात्यदृश्यताम् ॥ ६० ॥

एकाकारोऽर्यमा तत्तत्कार्येष्वेवं परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः ॥ ६१ ॥

मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ।
एवं जीवस्वरूपं ते प्रोक्तं। दशरथात्मज ॥ ६२ ॥